Monday, September 29, 2014

sāyaṇa-bhāṣya for the first five mantras

visit mantra-artha.blogspot.com for explanations on the mantras below.
1. आपः  पुननतु...
याः आपः सन्ति ताः पृथिवीं पुनन्तु प्रक्षालनेन शोधयन्तु। सा च पृथिवी पूता शुद्धा सती मामनुष्ठातारं पुनातु शोधयतु। तथा ब्रह्मणः वेदस्य पतिः पतिं प्रतिपालकम् एतम् आचार्यम् एता आपः पुनन्तु।  तेन आचार्येण उपदिष्टं ब्रह्म वेदस्वरूपं पूता स्वयं पूतं सत् मां पुनातु। अन्य-भुक्त-अवशिष्टरूपम् उच्छिष्टं यदस्ति  यच्चाभोज्यं भोक्तुम् अयोग्यं तादृशं कदाचित् मया भुक्तं यद्वा दुश्चरितम् अन्यदपि प्रतिषिद्धाचरणरूपं मम किञ्चित् सम्पन्नं तत् सर्वं परिह्रियते इति शेषः।  ततो माम् आपः पुनन्तु।  तथा असतां शूद्रादीनां प्रतिग्रहं च मया कृतं पुनन्तु। तदर्थम् इदम् अभिमन्त्रितम् उदकं स्वाहा मदीयवक्त्राग्नौ स्वहुतम् अस्तु।

2. उद्यन्नद्य मित्रमहः...
मित्रमहः अनुकूलतेजोयुक्त हे सूर्य  अद्य अस्मिन् दिने उद्यन् उदयं गच्छन् उत्तराम् अतिशयेन उत्कृष्टां दिवम् आरोहन् मम हृद्रोगं मानसीं पीडां हरिमाणं च हरितता शोकप्रभवं वैवर्ण्यं व्याधिप्रभवं विरूपत्वं च नाशय
.
3. पश्येम शरदः शतं...
तत् आदित्यमण्डलं शरदः शतं शतसंख्याकान् संवत्सरान् सर्वदा पश्येम। तत्प्रसादात् जीवनादिव्यापारांश्च प्राप्नवाम। नन्दाम द्रव्यैः समृद्धाः भूयास्म। मोदाम तद्भोगेन हृष्टाः स्यामः । भवाम स्वस्थाने निवसाम। शृणवाम वेदशास्त्ररहस्यं गुरुमुखादवगच्छाम। प्रब्रवाम शिष्येभ्यः प्रकर्षेण कथयाम। अजीताः शत्रुणा केनापि अपराजिताः। किञ्च ज्योग्दीर्घं कालं सूर्यं दृशे द्रष्टुं समर्थाः भूयास्म।

4. सङ्कु॑सुको॒ विकु॑सुको... 

संकुसुकःसंक्षेपेण परापवदनशीलः। विकुसुकः परापवदनस्य विस्तारयिता। निर्ऋथः क्लेशस्य प्रापयिता। यश्च निस्वनः पिशुनः। ते तादृशाः ये वयं स्मः अस्मत्त्तेभ्यः अस्मत्तः यक्ष्मं रोगनिमित्तं पापम्, अनागसः पापरिहिताः देवाः दूराद्दूरम् अतिशयेन दूरं यथा भवति तथा अचीचतं चातयन्तु, विनाशयन्तु इत्यर्थः।

5.आयुर् र्धेहि प्राणं धेहि...
हे अश्व मृदमाघ्राय यजमानस्य आयुरादीन् सम्पादय। मां यजमानं धेहि पोषय अपेक्षितं धनादिकं मयि यजमाने धेहि स्थापय ।