Tuesday, December 30, 2014

अङ्गुष्ठमात्र:...\aṅguṣṭhamātraḥ



सायणभाष्यम् - अङ्गुष्ठमात्र:...

क्षुधातिजनित-चित्तविक्षेपशान्तेः उर्ध्वं भोक्तुः जीवस्य परमेश्वररूपत्वानुसन्धाने हेतुभूतं मन्त्रं दर्शयति - अङ्गुष्ठमात्रः इत्यादि। हृदयमध्यगतः आकाशः अङ्गुष्ठपरिमितः। तत्र वर्तमाना बुद्धिः अपि तावती। तयावच्छिन्नः जीवरूपः पुरुषोऽपि अङ्गुष्ठमात्रः। स च स्वकीयया ज्ञनक्रियाशक्त्या अङ्गुष्ठं समाश्रितः । चकारान्मस्तकं चाश्रितः। आपादमस्तकव्यापीत्यर्थः। स च उपाधिसम्बन्धमन्तरेण स्वकीयेन वास्तवेन रूपेण सर्वस्य जगतः ईशः नियन्ता। अत एव विश्वभुक् सर्वं जगत् भुङ्क्ते। तादृशः सः प्रभुः ईश्वरः प्रीणातु, अनेन भोजनेन प्रीतो भवतु। 

kṣudhātijanita-cittavikṣepaśānteḥ urdhvam bhoktuḥ jīvasya parameśvararūpatvānusandhāne hetubhūtaṃ mantraṃ darśayati - aṅguṣṭhamātraḥ ityādi। hṛdayamadhyagataḥ ākāśaḥ aṅguṣṭhaparimitaḥ। tatra vartamānā buddhiḥ api tāvatī। tayāvacchinnaḥ jīvarūpaḥ puruṣo'pi aṅguṣṭhamātraḥ। sa ca svakīyayā jñanakriyāśaktyā aṅguṣṭhaṃ samāśritaḥ । cakārānmastakaṃ cāśritaḥ। āpādamastakavyāpītyarthaḥ। sa ca upādhisambandhamantareṇa svakīyena vāstavena rūpeṇa sarvasya jagataḥ īśaḥ niyantā। ata eva viśvabhuk sarvaṃ jagat bhuṅkte। tādṛśaḥ saḥ prabhuḥ īśvaraḥ prīṇātu, anena bhojanena prīto bhavatu। 

Monday, November 17, 2014

Gāyatrī interpretation 2

The commentary of Sāyaṇācārya

यद्वा । तदिति भर्गो विशेषणम्। सवितुः देवस्य तत् तादृशं भर्गो धीमहि। किन्तदित्यपेक्षायामाह - यः इति लिङ्गव्यत्ययः| यद्भर्गो धियः प्रचोदयात् तद् ध्यायेम इति समन्वयः।  सवितुः देवस्य यः (यत्) (वरेण्यम्) भर्गः धियः प्रचोदयात् तत् धीमहि।

யத்வா । ததிதி பர்கோ விஶேஷணம்। ஸவிது: தேவஸ்ய தத் தாத்ருஶ: பர்கோ தீமஹி। கிந்ததித்யபேக்ஷாயாமாஹ - யஃ இதி லிங்கவ்யத்யய: யத்பர்கோ திய: ப்ரசோதயாத்। தத் த்யாயேம இதி ஸமந்வய:।  ஸவிது: தேவஸ்ய ய: (யத்) (வரேண்யம்) பர்க: திய: ப்ரசோதயாத் தத் தீமஹி।

yadvā । taditi bhargo viśeṣaṇam। savituḥ devasya tat tādṛśaṃ bhargo dhīmahi। kintadityapekṣāyāmāha - yaḥ iti liṅgavyatyayaḥ yadbhargo dhiyaḥ pracodayāt। tad dhyāyema iti samanvayaḥ।  savituḥ devasya yaḥ (yat) (vareṇyam) bhargaḥ dhiyaḥ pracodayāt tat dhīmahi।

Sunday, October 26, 2014

Gāyatrī interpretation 1

In Devanagari
यः सविता देवः नः अस्माकं धियः कर्माणि धर्मादिविषया वा बुद्धीः प्रचोदयात् प्रेरयेत् तत् तस्य देवस्य सवितुः सर्वान्तर्यामितया प्रेरकस्य जगत्स्रष्टुः परमेश्वरस्य वरेण्यं सर्वैः उपास्यतया ज्ञेयतया च सम्भजनीयं भर्गः अविद्यातत्कार्ययोः भर्जनात् भर्गः स्वयंज्योतिः परंब्रह्मात्मकं तेजः धीमहि वयं ध्यायामः।

In Tamil
ய: ஸவிதா தேவ: ந: அஸ்மாகம் திய: கர்மாணி தர்மாதிவிஷயா வா புத்தீ: ப்ரசோதயாத் ப்ரேரயேத் தத் தஸ்ய தேவஸ்ய ஸவிது: ஸர்வாந்தர்யாமிதயா ப்ரேரகஸ்ய ஜகத்ஸ்ரஷ்டு: பரமேஶ்வரஸ்ய வரேண்யம் ஸர்வை: உபாஸ்யதயா ஜ்ஞேயதயா ச ஸம்பஜநீயம் பர்க: அவித்யாதத்கார்யயோ: பர்ஜநாத் பர்க: ஸ்வயம்ஜ்யோதி: பரம்ப்ரஹ்மாத்மகம் தேஜ: தீமஹி வயம் த்யாயாம:|

Roman transliteration
 yaḥ savitā devaḥ naḥ asmākaṃ dhiyaḥ karmāṇi dharmādiviṣayā vā buddhīḥ pracodayāt prerayet tat tasya devasya savituḥ sarvāntaryāmitayā prerakasya jagatsraṣṭuḥ parameśvarasya vareṇyaṃ sarvaiḥ upāsyatayā jñeyatayā ca sambhajanīyaṃ bhargaḥ avidyātatkāryayoḥ bharjanāt bhargaḥ svayaṃjyotiḥ paraṃbrahmātmakaṃ tejaḥ dhīmahi vayaṃ dhyāyāmaḥ।

Friday, October 17, 2014

akṣībhyāṁ

Tamil Transliteration

அக்ஷீப்⁴யாம் தே நாஸிகாப்⁴யாம் கர்ணப்⁴யாம் சு²பு³காத³தி⁴|
யக்ஷ்மம் ஶீர்ஷண்யம் மஸ்திஷ்காஜ்ஜிஹ்வாயா விவ்ருஹாமி தே|| 1||

க்³ரீவாப்⁴யஸ்த உஷ்ணிஹாப்⁴ய: கீகஸாப்⁴யோநூக்யாத்|
யக்ஷ்மம் தோ³ஷண்யமம்ஸாப்⁴யாம் பா³ஹுப்⁴யாம் விவ்ருஹாமி தே||2||

ஆந்த்ரேப்⁴யஸ்தே கு³தா³ப்⁴ய: வநிஷ்டோ²ர்ஹ்ருத³யாத³தி⁴|
யக்ஷ்மம் மதஸ்நாப்⁴யாம் யக்ந: ப்லாஶிப்⁴யோ விவ்ருஹாமி தே||3||

ஊருப்⁴யாம் தே அஷ்டீ²வத்³ப்⁴யாம் பார்ஷ்ணிப்⁴யாம் ப்ரபதா³ப்⁴யாம்|
யக்ஷ்மம் ஶ்ரோணீப்⁴யாம் பா⁴ஸதா³த்³ ப⁴ம்ஸஸோ விவ்ருஹாமி தே||4||

மேஹநாத்³ வநங்கரணாத் லேமப்⁴யஸ்தே நகே²ப்⁴ய: |
யக்ஷ்மம் ஸர்வஸ்மாதா³த்மநஸ்தமித³ம் விவ்ருஹாமி தே||5||

அங்கா³த³ஙாத் லோம்நோ லோம்நோ ஜாதம் பர்வணி பர்வணி|
யக்ஷ்மம் ஸர்வஸ்மாதா³த்மநஸ்தமித³ம் விவ்ருஹாமி தே||6||

Roman transliteration

akṣībhyāṁ te nāsikābhyāṁ karṇabhyāṁ chubukādadhi.
yakṣmaṁ śīrṣaṇyaṁ mastiṣkājjihvāyā vivṛhāmi te.. 1||

grīvābhyasta uṣṇihābhyaḥ kīkasābhyo'nūkyāt.
yakṣmaṁ doṣaṇyamaṁsābhyāṁ bāhubhyāṁ vivṛhāmi te..2..

āntrebhyaste gudābhyaḥ vaniṣṭhorhṛdayādadhi.
yakṣmaṁ matasnābhyāṁ yaknaḥ plāśibhyo vivṛhāmi te..3..

ūrubhyāṁ te aṣṭhīvadbhyāṁ pārṣṇibhyāṁ prapadābhyām.
yakṣmaṁ śroṇībhyāṁ bhāsadād bhaṁsaso vivṛhāmi te..4..

mehanād vanaṅkaraṇāt lemabhyaste nakhebhyaḥ .
yakṣmaṁ sarvasmādātmanastamidaṁ vivṛhāmi te..5..

aṅgādaṅāt lomno lomno jātaṁ parvaṇi parvaṇi.
yakṣmaṁ sarvasmādātmanastamidaṁ vivṛhāmi te..6..


सायणभाष्यम्
हे यक्ष्मगृहीत, ते तव अक्षीभ्यां चक्षुर्भ्यां यक्ष्मरोगं विवृहामि उद्धारयिष्यामि। विश्लेषयामीत्यर्थः। तथा नासिकाभ्यां घ्राणेन्द्रियाच्च कर्णाभ्यां श्रोत्राभ्यां च छुबुकात् चुबुकाद्  ओष्ठस्याधःप्रदेशाच्च। अपि च शीर्षण्यम्। शिरसि भवो रोगः शीर्षण्यः। ईदृशं यक्षरोगं ते तव मस्तिष्कात् शिरसोऽन्तरवस्थितो मांसविशेषः मस्तिष्कः। तस्मात् जिह्वायाः रसनायाश्च सकाशात् विवृहामि उद्धारयामि। पृथक्करोमीत्यर्थः।१।

हे व्याधिगृहीत उष्णिहाभ्यः ऊर्ध्वाभिमुखं स्निग्धाभ्यः उत्स्नाताभ्यः वा स्नायुभ्यः, ग्रीवाभ्यः गलगताभ्यः धमनीभ्यः ते तव यक्ष्मं विवृहामि। तथा कीकसाभ्यः अस्थिभ्यः अनूक्यात् अस्थिसन्धेश्च यक्ष्मं विवृहामि। अनूच्यते समवेयत इत्यस्थ्नः सन्धिरनूक्यः। अपि च दोष्णोर्भवं दोषण्यम्। तमपि यक्ष्मरोगं ते तव अंसाभ्यां बाहुभ्यां च यक्ष्मं विवृहामि। हस्तयोः ऊर्ध्वभागौ अंसौ, अधोभागौ बाहू। २।

हे यक्ष्माभिभूत! ते तव आन्त्रेभ्यः । आन्त्रं पुरीतदन्नपानयोराधानभूतम्। तत्संबन्धिभ्यः स्नायुभ्यः गुदाभ्यः याभिः नाडीभिः अन्नरसः समानवायुना धातुषु नीयते ताभ्यः नाडीभ्यश्च सकाशात् यक्ष्मं विवृहामि। तथा वनिष्ठोः स्थविरान्त्रात्, ह्दयादधि हृदयपुण्डरीकाच्च यक्ष्मं विवृहामि। अपि च ते तव मतस्नाभ्यां मतस्नौ पार्श्वयोर्वर्तमानौ आम्रफलाकृती वृक्कौ। ताभ्याम्। यक्नः हृदयसमीपे वर्तमानः कालमांसविशेषः यकृत्। तस्माच्च। प्लाशिभ्यः अन्येभ्योऽपि क्लोमप्लीहादिसंज्ञेभ्यः च मांसेभ्यः च यक्ष्मं रोगं विवृहामि  उत्क्षिपामि ।३।

हे रुग्ण। ते तव ऊरुभ्याम् अष्ठीवद्भ्यां जानुभ्यां च यक्ष्मं विवृहामि । तथा पार्ष्णिभ्यां पादस्यापरभागाभ्यां  प्रपदाभ्यां पादाग्राभ्यां च यक्ष्मं विवृहामि। तथा भासदात् । भसत् कटिप्रदेशः । तत्संबन्धात् भंससः भासमानात् पायोः ते तव यक्ष्मं विवृहामि।४।

वनङ्करणात् । वनमुदकं शारीरम्। तत्क्रियते विसृज्यते येन तद्वनङ्करणम्। तस्मात् मेहनात् मेढ्रात् ते तव लोमभ्यः नखेभ्यः च यक्ष्मं विवृहामि। किं बहुना। इदम् इदानीं तं यक्ष्मं सर्वस्मादात्मनः कृत्स्नादेव ते तव शरीरात् विवृहामि। ५।

अङ्गात् अङ्गात् सर्वेभ्यः अङ्गेभ्यः लोम्नोलोम्नो सर्वेभ्यः लोमभ्यश्च पर्वणि पर्वणि अवयवानां सन्धौ जातम् उत्पन्नं यक्ष्मं विवृहामि। अन्यद्गतम्। ६।  
  

Sunday, October 12, 2014

सरस्वती

सायणभाष्यम्

या सरस्वती सेयमिमं यज्ञं दधे धारितवती। कीदृशी। सूनृतानां प्रियाणां सत्यवाक्यानां चोदयित्री प्रेरयित्री। सुमतीनां शोभनबुद्धियुक्तानाम् अनुष्ठातॄणां चेतन्ती तदीयमनुष्ठानं ज्ञापयन्ती।

யா ஸரஸ்வதீ ஸேயமிமம் யஜ்ஞம் ததே தாரிதவதீ| கீத்ருஶீ| ஸூந்ருதாநாம் ப்ரியாணாம் ஸத்யவாக்யாநாம் சோதயித்ரீ ப்ரேரயித்ரீ| ஸுமதீநாம் ஶோபநபுத்தியுக்தாநாம் அநுஷ்டாத்ரூணாம் சேதந்தீ ததீயமநுஷ்டாநம் ஜ்ஞாபயந்தீ|

yā sarasvatī seyamimaṃ yajñaṃ dadhe dhāritavatī। kīdṛśī। sūnṛtānāṃ priyāṇāṃ satyavākyānāṃ codayitrī prerayitrī। sumatīnāṃ śobhanabuddhiyuktānām anuṣṭhātṝṇāṃ cetantī tadīyamanuṣṭhānaṃ jñāpayantī।

Thursday, October 2, 2014

प्रसमित्र bhāṣya

प्रसमित्र मर्तो अस्तु .... तैत्तिरीय-संहिता 3.4.11.6
यो यजमानः तव संबन्धिना व्रतेन कर्मणा शिक्षति अनुष्ठातुं शक्तो भवितुमिच्छति हे मित्र! सः मर्तः स मनुष्यः यजमानः प्रयस्वान् कर्मफलयुक्तः प्रकर्षेण अस्तु त्वोतः त्वया रक्षितः सः यजमानः न हन्यते रोगादिना न पीड्यते। न जीयते वैरिभिर्नाभिभूयते। अपि च त्वया रक्षितमेन यजमानम् अंहः पाप्मा अन्तितः समीपे नाश्नोति न व्याप्नोति दूराद् दूरेऽपि न प्राप्नोति

Monday, September 29, 2014

sāyaṇa-bhāṣya for the first five mantras

visit mantra-artha.blogspot.com for explanations on the mantras below.
1. आपः  पुननतु...
याः आपः सन्ति ताः पृथिवीं पुनन्तु प्रक्षालनेन शोधयन्तु। सा च पृथिवी पूता शुद्धा सती मामनुष्ठातारं पुनातु शोधयतु। तथा ब्रह्मणः वेदस्य पतिः पतिं प्रतिपालकम् एतम् आचार्यम् एता आपः पुनन्तु।  तेन आचार्येण उपदिष्टं ब्रह्म वेदस्वरूपं पूता स्वयं पूतं सत् मां पुनातु। अन्य-भुक्त-अवशिष्टरूपम् उच्छिष्टं यदस्ति  यच्चाभोज्यं भोक्तुम् अयोग्यं तादृशं कदाचित् मया भुक्तं यद्वा दुश्चरितम् अन्यदपि प्रतिषिद्धाचरणरूपं मम किञ्चित् सम्पन्नं तत् सर्वं परिह्रियते इति शेषः।  ततो माम् आपः पुनन्तु।  तथा असतां शूद्रादीनां प्रतिग्रहं च मया कृतं पुनन्तु। तदर्थम् इदम् अभिमन्त्रितम् उदकं स्वाहा मदीयवक्त्राग्नौ स्वहुतम् अस्तु।

2. उद्यन्नद्य मित्रमहः...
मित्रमहः अनुकूलतेजोयुक्त हे सूर्य  अद्य अस्मिन् दिने उद्यन् उदयं गच्छन् उत्तराम् अतिशयेन उत्कृष्टां दिवम् आरोहन् मम हृद्रोगं मानसीं पीडां हरिमाणं च हरितता शोकप्रभवं वैवर्ण्यं व्याधिप्रभवं विरूपत्वं च नाशय
.
3. पश्येम शरदः शतं...
तत् आदित्यमण्डलं शरदः शतं शतसंख्याकान् संवत्सरान् सर्वदा पश्येम। तत्प्रसादात् जीवनादिव्यापारांश्च प्राप्नवाम। नन्दाम द्रव्यैः समृद्धाः भूयास्म। मोदाम तद्भोगेन हृष्टाः स्यामः । भवाम स्वस्थाने निवसाम। शृणवाम वेदशास्त्ररहस्यं गुरुमुखादवगच्छाम। प्रब्रवाम शिष्येभ्यः प्रकर्षेण कथयाम। अजीताः शत्रुणा केनापि अपराजिताः। किञ्च ज्योग्दीर्घं कालं सूर्यं दृशे द्रष्टुं समर्थाः भूयास्म।

4. सङ्कु॑सुको॒ विकु॑सुको... 

संकुसुकःसंक्षेपेण परापवदनशीलः। विकुसुकः परापवदनस्य विस्तारयिता। निर्ऋथः क्लेशस्य प्रापयिता। यश्च निस्वनः पिशुनः। ते तादृशाः ये वयं स्मः अस्मत्त्तेभ्यः अस्मत्तः यक्ष्मं रोगनिमित्तं पापम्, अनागसः पापरिहिताः देवाः दूराद्दूरम् अतिशयेन दूरं यथा भवति तथा अचीचतं चातयन्तु, विनाशयन्तु इत्यर्थः।

5.आयुर् र्धेहि प्राणं धेहि...
हे अश्व मृदमाघ्राय यजमानस्य आयुरादीन् सम्पादय। मां यजमानं धेहि पोषय अपेक्षितं धनादिकं मयि यजमाने धेहि स्थापय ।