प्रसमित्र मर्तो अस्तु .... तैत्तिरीय-संहिता 3.4.11.6
यो यजमानः तव संबन्धिना व्रतेन कर्मणा शिक्षति अनुष्ठातुं शक्तो भवितुमिच्छति हे मित्र! सः मर्तः स मनुष्यः यजमानः प्रयस्वान् कर्मफलयुक्तः प्रकर्षेण अस्तु। त्वोतः त्वया रक्षितः सः यजमानः न हन्यते रोगादिना न पीड्यते। न जीयते वैरिभिर्नाभिभूयते। अपि च त्वया रक्षितमेन यजमानम् अंहः पाप्मा अन्तितः समीपे नाश्नोति न व्याप्नोति। दूराद् दूरेऽपि न प्राप्नोति।
No comments:
Post a Comment